कीलकम्
Durga Saptashati Keelakam Lyrics ॥ अथ कीलकम् ॥ ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः,श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥ सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥2॥ सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥ न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते।विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्॥4॥ समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः।कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥5॥ स्तोत्रं वै […]
Continue Reading