Devi Mahatmyam Durga Manasa Puja – Sanskrit Lyrics ॥ श्रीदुर्गामानस-पूजा ॥ उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितांनानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितमातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात्॥1॥ देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनंचञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्।एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलंगन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥ पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशोगन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्।तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्रोतसिस्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥ सुराधिपतिकामिनीकरसरोजनालीधृतांसचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्।महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकांगृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥ गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज-प्रस्तारैर्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम्।मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलंचैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम्॥5॥ स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिकामध्ये […]
Continue Reading