श्री देवी अथर्वशीर्षम्
Durga Saptashati Shridevyatharvashirsham Sanskrit Lyrics ॥ श्रीदेव्यथर्वशीर्षम् ॥ ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति॥1॥ साब्रवीत् – अहं ब्रह्मस्वरूपिणी। मत्तःप्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥ अहमानन्दानानन्दौ। अहं विज्ञानाविज्ञाने।अहं ब्रह्माब्रह्मणी वेदितव्ये।अहं पञ्चभूतान्यपञ्चभूतानि।अहमखिलं जगत्॥3॥ वेदोऽहमवेदोऽहम्। विद्याहमविद्याहम्। अजाहमनजाहम्।अधश्चोर्ध्वं च तिर्यक्चाहम्॥4॥ अहं रुद्रेभिर्वसुभिश्चरामि।अहमादित्यैरुत विश्वदेवैः।अहं मित्रावरुणावुभौ बिभर्मि।अहमिन्द्राग्नी अहमश्विनावुभौ॥5॥ अहं सोमं त्वष्टारं पूषणं भगं दधामि।अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि॥6॥ अहं दधामि द्रविणं हविष्मतेसुप्राव्ये […]
Continue Reading