नर्मदाष्टकम्
Narmada Ashtakam Lyrics in Hindi सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितंद्विषत्सु पापजातजातकारिवारिसंयुतम् ।कृतान्तदूतकालभूतभीतिहारिवर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥ त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकंकलौ मलौघभारहारिसर्वतीर्थनायकम् ।सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥ महागभीरनीरपूरपापधूतभूतलंध्वनत्समस्तपातकारिदारितापदाचलम् ।जगल्लये महाभये मृकण्डुसूनुहर्म्यदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥ गतं तदैव मे भयं त्वदम्बु वीक्षितं यदामृकण्डुसूनुशौनकासुरारिसेवितं सदा ।पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥ अलक्ष्यलक्षकिन्नरामरासुरादिपूजितंसुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥ सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैःधृतं स्वकीयमानसेषु […]
Continue Reading